8th पाठ6
[यह पाठ कन्याओं की हत्या पर रोक और उनकी शिक्षा सुनिश्चित करने की प्रेरणा हेतु निर्मित है। समाज में लड़के और लड़कियों के बीच भेद-भाव की भावना आज भी समाज में यत्र-तत्र देखी जाती है। जिसे दूर किए जाने की आवश्यकता है। संवादात्मक शैली में इस बात को सरल संस्कृत में प्रस्तुत किया गया है।]
"शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति। सर्वे प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति परं तस्याः भ्रातृजाया उदासीना इव दृश्यते"
शालिनी- भ्रातृजाये! चिन्तिता इव प्रतीयसे, सर्वं कुशलं खलु?
माला - आम् शालिनि! कुशलिनी अहम्। त्वदर्थं किम् आनयानि, शीतलपेयं चायं वा?
शालिनी- अधुना तु किमपि न वाञ्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि।
(भोजनकालेऽपि मालायाः मनोदशा स्वस्था न प्रतीयते स्म, परं सा मुखेन किमपि नोक्तवती)
राकेशः- भगिनि शालिनि! दिष्ट्या त्वं समागता। अद्य मम कार्यालये एका महत्त्वपूर्णा गोष्ठी सहसैव निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः त्वं मालया सह चिकित्सिकां प्रति गच्छ, तस्याः परामर्शानुसारं यद्विधेयं तद् सम्पादय।
शालिनी- किमभवत्? भ्रातृजायायाः स्वास्थ्यं समीचीनं नास्ति? अहं तु ह्यः प्रभृति पश्यामि सा स्वस्था न प्रतिभाति इति प्रतीयते स्म।
राकेशः- चिन्तायाः विषयः नास्ति। त्वं मालया सह गच्छ। मार्गे सा सर्वं ज्ञापयिष्यति।
(माला शालिनी च चिकित्सिकां प्रति गच्छन्त्यौ वार्तां कुरुतः)
शालिनी- किमभवत्? भ्रातृजाये! का समस्याऽस्ति?
माला-शालिनि! अहं मासत्रयस्य गर्भं स्वकुक्षौ धारयामि। तव भ्रातुः आग्रहः अस्ति यत् अहं लिड्गपरीक्षणं कारयेयं कुक्षौ कन्याऽस्ति चेत् गर्भं पातयेयम्। अहम् अतीव उद्विग्नाऽस्मि परं तव भ्राता वार्तामेव न शृणोति।
शालिनी- भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत्
वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल, नास्ति आवश्यकता लिङ्गपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति अहम् वार्तां करिष्ये।
(सन्ध्याकाले भ्राता आगच्छति हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति। तदनन्तरं चायपानार्थम् सर्वेऽपि एकत्रिताः।)
राकेशः- माले! त्वं चिकित्सिकां प्रति गतवती आसीः, किम् अकथयत् सा?
(माला मौनमेवाश्रयति। तदैव क्रीडन्ती त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे उपविशति तस्मात् चाकलेहं च याचते। राकेशः अम्बिकां लालयति, चाकलेहं प्रदाय तां क्रोडात् अवतारयति। पुनः मालां प्रति प्रश्नवाचिकां दृष्टिं क्षिपति। शालिनी एतत् सर्वं दृष्ट्वा उत्तरं ददाति)
शालिनी- भ्रातः! त्वं किं ज्ञातुमिच्छसि? तस्याः कुक्षि पुत्रः अस्ति पुत्री वा? किमर्थम्? षण्मासानन्तरं सर्वं स्पष्टं भविष्यति, समयात् पूर्वं किमर्थम् अयम् आयासः?
राकेशः- भगिनि, त्वं तु जानासि एव अस्माकं गृहे अम्बिका पुत्रीरूपेण अस्त्येव अधुना एकस्य पुत्रस्य आवश्यकताऽस्ति तर्हि.......
शालिनी- तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या? (तीव्रस्वरेण) हत्यायाः पापं कर्तुं प्रवृत्तोऽसि त्वम्।
राकेशः- न, हत्या तु न.........
शालिनी– तर्हि किमस्ति निर्घृणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः कदापि पुत्रीपुत्रयोः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पंक्तिमिमाम् उद्धरति स्म "आत्मा वै जायते पुत्रः पुत्रेण दुहिता समा"। त्वमपि सायं प्रातः देवीस्तुतिं करोषि? किमर्थं सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोषि? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदं चिन्तयित्वैव अहं कुण्ठिताऽस्मि। तव शिक्षा वृथा......
राकेशः- भगिनि! विरम विरम। अहं स्वापराधं स्वीकरोमि लज्जितश्चास्मि। अद्यप्रभृति कदापि गर्हितमिदं कार्यं स्वप्नेऽपि न चिन्तयिष्यामि। यथैव अम्बिका मम हृदयस्य सम्पूर्णस्नेहस्य अधिकारिणी अस्ति, तथैव आगन्ता शिशुः अपि स्नेहाधिकारी भविष्यति पुत्रः भवतु पुत्री वा। अहं स्वगर्हितचिन्तनं प्रति पश्चात्तापमग्नः अस्मि, अहं कथं विस्मृतवान्
"यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।"
अथवा "पितुर्दशगुणा मातेति।" त्वया सन्मार्गः प्रदर्शितः भगिनि। कनिष्ठाऽपि त्वं मम गुरुरसि।
शालिनी- अलं पश्चात्तापेन। तव मनसः अन्धकारः अपगतः प्रसन्नतायाः विषयोऽयम्। भ्रातृजाये! आगच्छ। सर्वां चिन्तां त्यज आगन्तुः शिशोः स्वागताय च सन्नद्धा भव। भ्रातः त्वमपि प्रतिज्ञां कुरु - कन्यायाः रक्षणे, तस्याः पाठने दत्तचित्तः स्थास्यसि "पुत्रीं रक्ष, पुत्रीं पाठय" इतिसर्वकारस्य घोषणेयं तदैव सार्थिका भविष्यति यदा वयं सर्वे मिलित्वा चिन्तनमिदं यथार्थरूपं करिष्यामः-
या गार्गी श्रुतचिन्तने नृपनये पाञ्चालिका विक्रमे,
लक्ष्मीः शत्रुविदारणे गगनं विज्ञानाङ्गणे कल्पना।
इन्द्रोद्योगपथे च खेलजगति ख्याताभितः साइना,
सेयं स्त्री सकलासु दिक्षु सबला सर्वैः सदोत्साह्यताम्।।
शब्दार्थाः
भ्रातृजाया - भाभी
वाञ्छामि - चाहता हूँ/चाहती हूँ
सह - साथ
दिष्ट्या - भाग्य से
ह्यः - कल
सार्द्धम् - साथ
उभे - दोनों
कुक्षौ - कोख में
उद्विग्ना - चिन्तित
वधार्हा - वध के योग्य
क्रोडे - गोदी में
आयासः - प्रयास
निर्घृणम् - घृणा योग्य
दुहिता - पुत्री
निधाय - रख कर
गर्हितम् - निन्दित
कनिष्ठा - छोटी
अपगतः - दूर हो गया
सन्नद्धः - तैयार
श्रुतचिन्तने - तत्त्वों (ज्ञान) के चिन्तन-मनन में
शत्रुविदारणे - शत्रुओं को पराजित करने में
सकलासु - सभी
दिक्षु - दिशाओं में
सबला - बल से युक्त
उत्साह्यताम् - प्रोत्साहित करें
अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्ताराणि संस्कृतभाषया लिखत-
(क) दिष्ट्या का समागता?
(ख) राकेशस्य कार्यालये का निश्चिता?
(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
(ङ) राकेशः कस्याः तिरस्कारं करोति?
(च) शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
2. अधोलिखितपदानां संस्कृतरूपं (तत्समरूपं) लिखत-
(क) कोख
(ख) साथ
(ग) गोद
(घ) भाई
(ङ) कुआँ
(च) दूध
3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) ................ विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः ................ लिखति (लेखनी)
(घ) सूरदासः ................ अन्धः आसीत् (नेत्र)
(ङ) सः ................ साकम् समयं यापयति। (मित्र)
4. ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(1) स्वस्था | (क) कृत्यम् |
(2) महत्वपूर्णा | (ख) पुत्री |
(3) जघन्यम् | (ग) वृत्तिः |
(4) क्रीडन्ती | (घ) मनोदशा |
(5) कुत्सिता | (ङ) गोष्ठी |
5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः
6. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आयासं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।
7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
यथा - नोक्तवती न उक्तवती
सहसैव = सहसा + ..............
परामर्शानुसारम् = .............. + अनुसारम्
वधार्हा = .............. + अर्हा
अधुनैव = अधुना + ..............
प्रवृत्तोऽपि = प्रवृत्तः + ..............
योग्यता-विस्तारः
विभिन्न क्षेत्रों में स्त्री की स्थिति-
प्राचीनकाल में स्त्रियों की स्थिति काफी उन्नत और सुदृढ़ थी। वेद और उपनिषद् काल तक पुरुषों के साथ-साथ स्त्रियों को भी शिक्षित किया जाता था। लवकुश के साथ आत्रेयी के पढ़ने का प्रसंग एक तरफ सहशिक्षा को प्रमाणित करता है, दूसरी तरफ ब्रह्मवादिनी वेदज्ञऋषि गार्गी मैत्रैयी, अरुन्धती आदि की ख्याति इस बात को भी प्रमाणित करती है कि पुरुषों और स्त्रियों के मध्य कोई विभेद नहीं था।
पर बाद के काल में स्त्रियों की स्थिति दयनीय होती गई, जिसमें कुछ सुधार तो हुआ है, पर अभी भी स्त्री शिक्षा को बढ़ाने तथा कन्या जन्म को बाधारहित बनाने के लिए समवेत प्रयास की आवश्यकता है। प्रधानमंत्री श्री नरेन्द्र दामोदर मोदी का "बेटी बचाओ बेटी पढ़ाओ" अभियान इसी की एक पहल है।
कुछ सफल महिलाएँ-
गायिकाएँ एम.एस.सुब्बुल लता मंगेशकरक्ष्मी गंगूबाई हंगल आशा भोंसले अनीता देसाई | साहित्य सरोजनी नायडू कमला सुरैया शोभाडे अरुंधती राय | राजनीति इन्दिरा गांधी सुमित्रा महाजन प्रतिभा पटेल सुषमा स्वराज |
चित्रकार
आंजोल्नी इला मेनन
खेल
पी.टी.ऊषा
कोनेरू हम्पी (शतरंज)
जे शोभा (एथलेटिक्स)
सानिया मिर्ज़ा (टेबल टेनिस)
कुंजूरानी देवी (भारोत्तोलन)
कर्णममल्लेश्वरी (भारात्तोलन)
साइना नेहवाल (बैडमिन्टन)
वाणिज्य
अरुन्धती भट्टाचार्य
चंदा कोचर
चित्रारामकृष्ण
भाषिक विस्तार-
* अलम् (व्यर्थ) के योग में तृतीया विभक्ति का प्रयोग होता है।
यथा - पश्चात्तापेन अलम्।
कलहेन अलम्।
विवादेन अलम्।
लज्जया अलम्।
* "साथ" अर्थ वाले शब्दों (सह, साकम्, समम् तथा सार्द्धम्) के साथ भी तृतीया विभक्ति का प्रयोग होता है।
यथा - सर्वैः साकं भोजनं करिष्यामि।
मालया सार्द्धं गच्छ।
चिकित्सिकया सह मेलनं भविष्यति।
पित्रा सह पुत्रः गच्छति।
मित्रेण सह क्रीडति।
* अव्यय -जिन शब्दों में किसी लिंग किसी विभक्ति अथवा किसी वचन में कोई परिवर्तन नहीं होता उन्हें अव्यय कहते हैं।
पाठ में प्रयुक्त कुछ अव्यय पद -
इव - के समान
खलु - निश्चय बोधक अव्यय
वा - या
अधुना - इस समय
अद्य - आज
सहसा - अचानक
एव - ही
ह्यः - बीता हुआ कल
श्वः - आने वाला कल
यद् - जो
तद् - वह
चेत् - यदि
कथम् - कैसे
तूष्णीम् - चुपचाप
यदा - जब, तदा तब
यदि - यदि, तर्हि-तो
वृथा - व्यर्थ
अलम् - व्यर्थ
किम् - क्या
किमर्थम्- किस लिए
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home