Tuesday, April 14, 2020

Class-6-chapter-6

RuchiraBhag1-006

षष्ठः पाठः

समुद्रतटः


एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गैः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।
अस्माकं देशे बहवः समुद्रतटाः सन्ति। एतेषु मुम्बई-गोवा-कोच्चि- कन्याकुमारी-विशाखापत्तनम्-पुरीतटाः अतीव प्रसिद्धाः सन्ति। गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम्-तटः वैदेशिकव्यापाराय प्रसिद्धः। कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। मुम्बईनगरस्य जुहूतटे सर्वे जनाः स्वैरं विहरन्ति। चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु दीर्घतमः।
भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति। अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः इति कथ्यते। पूर्वदिशायां बङ्गोपसागरः दक्षिणदिशायां हिन्दमहासागरः पश्चिमदिशायां च अरबसागरः अस्ति। एतेषां त्रयाणाम् अपि सागराणां सङ्गम कन्याकुमारीतटे भवति। अत्र पूर्णिमायां चन्द्रोदयः सूर्यास्तं च युगपदेव द्रष्टुं शक्यते।





ीया-चतुथ…  यह समु का िकनारा है। यहाँलोग घूमनेके िलए आतेह। कुछ लोग लहरोंके साथ खेलतेह। कुछ नौकाओंके ारा समु मघूमनेजातेह। कुछ लोग गद सेखेलतेह। बालक तथा बािलकाएँबालूसेबालूका घर बनातेह। म-म मलहरआकर बालूके घर को बहा देती ह। यह खेल इसी कार चलता रहता है। समु िकनारा केवल घूमनेका थान नहींह। यहाँिवमान मछुआरेभी अपनी जीिवका को इसी सेचलाते ह। हमारेदेश भारत मबत सेसमुी िकनारेह। इनमसेमुंबई, गोवा, को, काकुमारी, िवशाखापनम्, तथा पुरी का तट बत अिधक िवात है। गोवा का समुी िकनारा िवदेशी पयटकोंको सबसेअिधक अा लगता है। िवशाखापनम का िकनारा िवदेशोंसेापार करने के िलए िवात है। कोतट नारयल के िलए िस है। मुंबई शहर के जु के तट पर सभी लोग िबना रोक-टोक घूमतेह। चेई शहर का मेरीना नामक तट देश के सागर तटोंमसबसेलंबा है। भारत की तीन िदशाओंमसमुतट िवमान ह। इसी कारणवश भारत देश को ायीप कहा जाता है। पूवकी िदशा मबंगाल की खाड़ी, दिण की िदशा मिहंद महासागर और पिम िदशा मअरब सागर िवमान है। इन तीन सागरोंका िमलन काकुमारी के िकनारेपर होता है। यहाँपूिणमा को चंोदय और सूया के को एक साथ देखा जा सकता ह

         शब्दार्थाः

समुद्रतटः - समुद्र का किनारा sea beach
पर्यटनाय - घूमने के लिये for excursion
तरङ्गैः - लहरों से/ के साथ with waves
नौकाभिः नौकाओं के द्वारा by the boats
जलविहारम् - जलक्रीडा water game
बालुकाभिः - बालुओं से with sands
बालुकागृहम् - बालू का घर, घरौंदा sand-houselet
मध्ये-मध्ये - बीच-बीच में at some interval
प्रवाहयन्ति - धो देते हैं, बहा देेते हैं wash out
प्रचलति एव - चलती ही रहती है keeps going on
पर्यटनस्थानानि - घूमने की जगह touristspot
मत्स्यजीविनः - मछुआरे fishermen
स्वजीविकाम् - अपनी जीविका को means of one's livelihood
चालयन्ति - चलाते हैं causing to move
अतीव - बहुत अधिक excessive
स्वैरम् बे-रोक टोक/यथेच्छ as one pleases
विहरन्ति - घूमते हैं/ टहलते हैं roam
दीर्घतमः - सबसे लम्बा longest
प्रायद्वीपः - तीन तरफ जल से घिरा भू भागpeninsula
ङ्गमः - मिलन confluence
युगपदेव(युगपत्+एव) - एक ही साथ at the same time
द्रष्टुं शक्यते - देखा जा सकता है may be seen

अभ्यासः


1. उच्चारणं कुरुत-
तरङ्गैः   मत्स्यजीविनः    विदेशिपर्यटकेभ्यः
सङ्गमः   तिसृषु   वैदेशिकव्यापाराय
प्रायद्वीपः    बङ्गोपसागरः    चन्द्रोदयः

2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) जनाः काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
(ग) जनाः कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति?
(ङ) कोच्चितटः केभ्यः ज्ञायते?
3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बङ्गोपसागरः    प्रायद्वीपः  पर्यटनाय    क्रीडा    सङ्गमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां .................... भवति।
(ख) भारतदेशः .................... इति कथ्यते।
(ग) जनाः समुद्रतटं .................... आगच्छन्ति।
(घ) बालेभ्यः .................... रोचते।
(ङ) भारतस्य पूर्वदिशायां .................... अस्ति।
4. यथायोग्यं योजयत-
समुद्रतटः  ज्ञानाय
क्रीडनकम्  पोषणाय
दुग्धम्  प्रकाशाय
दीपकः  पर्यटनाय
विद्या  खेलनाय
5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः .................. सह पठन्ति। (बालिका)
(ख) तडागः .................. विभाति। (कमल)
(ग) अहमपि .................. खेलामि। (कन्दुक)
(घ) अश्वाः .................. सह धावन्ति। (अश्व)
(ङ) मृगाः .................. सह चरन्ति। (मृग)
6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत-
7777

यथा- 1. रहीमः मित्रेण सह क्रीडति।
2. ............................................
3. ............................................
4............................................
5. ............................................
6. ............................................
7. ............................................
8. ............................................
7. कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) धनिकः .................. धनं ददाति। (निर्धनम्/निर्धनाय)
(ख) बालः .................. विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः .................. जीवन्ति। (परोपकारम्/परोपकाराय)
(घ) प्रधानाचार्यः .................. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) .................. नमः। (शिक्षकाय/शिक्षकम्)

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home