Tuesday, April 14, 2020

Class 7-chapter 8

ruchiraBhag2-008
अष्टमः पाठः

त्रिवर्णः ध्वजः 

(केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रता-दिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्परं संलपन्ति।)

देवेशः - अद्य स्वतन्त्रता-दिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।
डेविडः - शुचे! जानासि त्वम्? अस्माकं ध्वजः कीदृशः?
शुचिः - अस्माकं देशस्य ध्वजः त्रिवर्णः इति।
सलीमः - रुचे! अयं त्रिवर्णः कथम्?
रुचिः - अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अतः त्रिवर्णः। किं त्वम् एतेषां वर्णानां नामानि जानासि?
सलीमः - अरे! केशरवर्णः, श्वेतः, हरितः च एते त्रयः वर्णाः।
देवेशः - अस्माकं ध्वजे एते त्रयः वर्णाः किं सूचयन्ति?
सलीमः - शृणु, केशरवर्णः शौर्यस्य, श्वेतः सत्यस्य, हरितश्च समृद्धेः सूचकाः सन्ति।
शुचिः - किम् एतेषां वर्णानाम् अन्यदपि महत्त्वम्?
डेविडः - आम्! कथं न? ध्वजस्य उपरि स्थितः केशरवर्णः त्यागस्य उत्साहस्य च सूचकः। मध्ये स्थितः श्वेतवर्णः सात्त्विकतायाः शुचितायाः च द्योतकः। अधः स्थितः हरितवर्णः वसुन्धरायाः सुषमायाः उर्वरतायाश्च द्योतकः।
तेजिन्दरः - शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचिः - आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।
प्रणवः - अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी - भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्?
तेजिन्दरः - अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।
जयतु त्रिवर्णः ध्वजः, जयतु भारतम्।


(कुछ बालक एवं बािलकाए  ँतंता िदवस के जारोहण समारोह मउाहपूवक जातेहऔर आपस मबातेकरतेह।) देवेश - आज तंता िदवस है। हमारेिवालय के धानाचायाजारोहण करगे, छा सांृितक कायम ुत करगेऔर अंत मसभी छाोंको लड्डूिदया जाएगा। डेिवड - शुिच! ा तुम जानती हो, हमारेज का नाम ा है? शुिच – अरे! ा कोई ऐसा भारतीय हैजो अपनेज के िवषय मनहींजानता? हमारेदेश के ज का नाम ितरंगा है। सलीम - िच! इसका नाम ितरंगा ोंहै? िच – हमारेज मतीन रंग हइसिलए ितरंगा है। ा तुम इनके रंगोंके नाम जानतेहो? सलीम - अरे! केसरी रंग, सफ़ेद रंग, और हरा रंग येतीन रंग ह। देवेश - हमारेज मयेतीन रंग ोंिलए गए ह? सलीम - इन तीनोंरंगोंका यहाँिवशेष अथहै। देवेश - ा िवशेष अथहै? सलीम - सुनो, केसरी रंग वीरता का, सफ़ेद रंग शा का, तथा हरा रंग समृ का सूचक हैऔर यं येज अनेकता मएकता का सूचक है। शुिच - ा इसकी पियोंका और भी कुछ मह है? डेिवड - हाँ! ोंनही? ं ज के ऊपर थत केसरी पी अि की लपटोंकी तरह ऊजातथा उाह का सूचक है। बीच मथत सफ़ेद पी साकता और िनमलता की ोतक है। नीचेथत हरी पी समृ और गित का तीक है। तेिजर - शुिच! ज के बीच मथत च का ा मह है? शुिच - ा यह अशोक च वेस का, धमका और अिहंसा का ोतक ह? णव - ा नहींजानती हो? तंता आंदोलन मेइस ज की महपूणभूिमका थी। शुिच - ा इस ज की भूिमका ा थी? देवेश – इस ज के सहारेही तंता आंदोलन आ था। डेिवड - देश की तंता के िलए लीबाई, महाागाँधी, पं. जवाहर लाल नेह, सुभाष चं बोस, चंशेखर आज़ाद, भगत िसंह, सरोिजनी नायडू, अणा आसफ अली इािदयोंनेआजीवन संघषिकया और लाखोंनेअपनेाण भी ौछावर कर िदए थे। तेिजर – हमारा ितरंगा ज ािभमान का तीक है। सभी भारतीयोंको इसका सान करना चािहए। इसिलए हमारा स हैिक इस राज के सान की रा के िलए हम अपना-अपना क िनभाएँगे। ितरंगेज की जय हो, भारत की जय हो। 

शब्दार्थाः

त्रिवर्णः ध्वजः- तीन रंगों वाला झंडा (तिरंगा झंडा)tricolour flag
संलपन्ति- वार्तालाप करते हैं/करती हैं talk
प्रस्तोष्यन्ति- प्रस्तुत करेंगे/करेंगीwill present
मोदकानि- लड्डूa kind of sweet
ऊर्जस्वितायाः- ऊर्जा कीof energy
अराः- तीलियाँspokes
उत्तोलनम्- ऊपर उठाना/फहराना hoisting


Captureexe
1. शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। 
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। 
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। 
(घ) चक्रे त्रिंशत् अराः सन्ति। 
(ङ) चक्रं प्रगतेः द्योतकम्। 
2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि विभक्तिः वचनम्
यथा-त्रयाणाम् षष्ठी बहुवचनम्
समृद्धेः ................. .................
वर्णानाम्  ................. .................
उत्साहस्य ................. .................
नागरिकैः ................. .................
सात्त्विकतायाः ................. .................
प्राणानाम् ................. .................
सभायाम्  ................. .................
3. एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
4. एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(ख) अशोकस्तम्भः कुत्र अस्ति?
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
(घ) अशोकचक्रे कति अराः सन्ति?
5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृृणां सद्बुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा सप्तमी अग्निशिखायाम् ................. .................
सभा चतुर्थी ................. सभाभ्याम् .................
अहिंसा द्वितीया अहिंसाम् ................. .................
सफलता पञ्चमी ................. सफलताभ्याम् .................
सूचिका तृतीया सूचिकया ................. .................
7. समुचितमेलनं कृत्वा लिखत-
 
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणंस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।




0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home